SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ।। १६६ ।। सेवधिं ततः ॥ तस्य प्रियवयस्यस्योपकारं कर्तुमुद्यतः ॥ १० ॥ मित्रप्रियायै तं स्तम्भं दर्शयन् करसंज्ञया ॥ धर्मोपदेशव्याजेने -त्युवाच मुनिपुङ्गवः ॥ ११ ॥ [ युग्मम् ] इदमीदृक् तच तादृकू, पश्य जातं हि कीदृशम् ? ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभृगुः ॥ १२ ॥ इदमी द्रव्यजातं खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-मणं तस्य ताहशम् ! ॥ १३ ॥ प्रेक्षस्व कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता - स्तदाकर्ण्यत्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्रागू, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थे, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पादानैः पावयन्नृर्वी, विहरन्नन्यतो ययौ ॥ १६ ॥ आगान्निर्धन एवाऽथ, धनदेव निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद ॥ साऽभ्यधात् स्थूलभद्रो न किञ्चिदूचे विशेषतः ॥ १८ ॥ किंत्वेनं स्तम्भमसकृ - दर्शयन्नित्यभाषत ॥ इदमीदृकू तच्च तादृक् पश्य जातं हि कीदृशम् ! ॥ १९ ॥ धनदेवस्तदाकर्ण्या -ऽध्यासीदेवं कुशाग्रधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते ! ॥ २० ॥ तन्नूनमस्य स्तम्भस्या -ऽधस्ताद्भावी निधिः क्वचित् ॥ ध्यात्वेत्युदखनत् स्तम्भं, निधिश्चाविभून्महान् ॥ २१ ॥ धनदेवो निधेस्तस्मान्नानाविधमणिव्रजम् ॥ आसाद्या पेतदारिद्र्यो, बभ्रुव धनदोपमः ॥ २२ ॥ भगवान् शकटालनन्दनर्षि-र्न यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्भीरैः ॥ २३ ॥ इति ज्ञानपरी हे स्थूलभद्राचार्यकथा ॥ २१ ॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीपहमाह - UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy