SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १६५ ।। अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ॥ ३१ ॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु स्वकीयं कर्मैव, निनिन्द ज्ञानबाधकम् ॥ ३२ ॥ एवं द्वादशभिर्वर्षे - स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ ३३ ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाच्च केवलज्ञानं प्राप्य निर्वृत्तिमासदत् ! ॥ ३४ ॥ इति साधुवरो विसोढ- वानयमज्ञानपरिषहं यथा ॥ अनगारपुरन्दरैः प- रैरपि सह्यः स तथा क्षमापरैः ॥ ३५ ॥ इत्यज्ञानपरीषहस हनेऽशकटापितृमुनिकथा || ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि चतुर्दशानां पूर्वाणां, पारवा महामुनिः ॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥ १॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः ॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ २ ॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः खयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥ ३ ॥ ततः सा द्रुतमुत्थाय तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥ ४ ॥ धनदेवः कुत्र यातः ?, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥ ५ ॥ स्वामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥ ६ ॥ ततः सोऽन्वेषयामास निधीन् पित्रादिसञ्चितान् ॥ विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ ७ ॥ ae arease वाणिज्य - हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ ८ ॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत् स्थूलभद्रगुरुर्गुणी ॥ ९ ॥ स्तम्भस्याधः स्थितं दृष्ट्वा महान्तं द्वितीयमध्ययनम् (२) SUTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy