________________
।। १६२ ।।
त्वात्,
विरतो निवृत्तो, मैथुनादब्रह्मणः । सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यज, सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुस्वभावं, 'कल्लाणत्ति' लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥ ४२ ॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं ? यतःमूलम् - तवोत्रहाणमादाय, पडिमं पडिवज्जओ । एवंपि विहरओ मे, च्छउमं न णिअइ ॥ ४३ ॥
व्याख्या - तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादिरूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानावरणादि कर्म न नैव निवर्त्तते नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥ ४३ ॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाच्चास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः - " ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? | अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥ १ ॥ इति । उदाहरणञ्चात्र, तथाहि
स्थापन भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भजतुर्व्रतम् ॥ १ ॥ बहुश्रुतस्तयोरे को - ऽन्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा -ऽऽचार्यकं खगुरोः क्रमात् ॥ २ ॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर
UTR-1