SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ।। १६० ।। चार्यधुरन्धराः १ ॥ पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ॥ ३३ ॥ आचार्यवर्यानायाता - नत्र नो वेद्मि कांश्चन ॥ एको वृद्धयतिः किन्तू - जयन्या अस्त्युपागतः ! ॥ ३४ ॥ तं वृद्धसाधुमस्माक - मिदानीं दर्शयेति तैः ॥ उदितः सागराचार्य - स्तान्मुनीन्द्रानदीदृशत् ॥ ३५ ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ॥ ३६ ॥ शिष्यैरस्मादृशैर्दुष्टै - रविनीतैः प्रमादिभिः ॥ खिन्ना अमी विमुच्यास्मा- नत्रैकाकिन आययुः || ३७ || प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया || अवज्ञाताः सूरयस्त - त्सागर ! स्मो वयं समाः ! ॥ ३८ ॥ इत्युक्त्वा ते खापराधं, क्षमयाचक्रिरे गुरोः ॥ सागरार्योऽपि सम्भ्रान्तः, सूरीन्नत्वैवमत्रवीत् ॥ ३९ ॥ युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया || आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे ! ॥ ४० ॥ वारंवारमुदीयैव - मित्यप्राक्षीच सागरः ॥ श्रुतं व्याख्यामि कीदृक्ष- महं ब्रूत पितामहाः ! ॥ ४१ ॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो यस्ति कोऽधुना ? ॥ ४२ ॥ इत्युक्त्वा कालकाचार्याः, पलकं वालुकाभृतं ॥ नद्या आनाययं - स्तस्य प्रतिबोधाय धीधनाः ॥ ४३ ॥ स्थाने क्वाऽप्यऽखिलां क्षिप्त्वा रेणुमुद्धृत्य तां पुनः ॥ द्वितीयस्थानके न्यास्थं - स्ततोऽपि च तृतीयके ॥ ४४ ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुद्धृताः ॥ वालुका जज्ञिरे स्तोक - तरा भूम्यादिसङ्गतः ॥ ४५ ॥ प्रदर्श्य रेणुदृष्टान्त - मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः खतः ॥ ४६ ॥ विज्ञानमेवं सम्पूर्ण - मनन्तमविनश्वरम् ॥ अभूत्खतो जिनेन्द्रेषु, लोकालो UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy