________________
।। १५८ ॥
णादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ ५॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैनैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ॥ ६ ॥ विहाय तदमून क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय, परमार्थ न्यवेदयन् ॥७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तयं दर्शयेः !॥ ८॥ एव-13 मुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः ॥ पार्थे सागरसूरेस्ते, स्वर्णभूमौ स्वयं ययुः ॥ १०॥ अदृष्टपूर्वान् तान्नोगा-लक्षयत्सागरस्ततः ॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥ ११॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानपृच्छच्च सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ? ॥ अवन्त्या इति | गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ! ॥ १३॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ॥ १४ ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः ॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५ ॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥ १६॥
इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥ १७ ॥ पप्रच्छुरिति | सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्येवं,
UTR-1