________________
उत्तराध्ययन
।। १५७।।
* जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ ४० ॥ आह - द्वितीयमध्ययदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते
यनम् (२) मूलम्-अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥४१॥
व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादवाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥ ४१॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्य, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं खबुद्ध्या मदं यान्ति ? ॥१॥ इति" निदर्शनश्चात्र, तथाहि
उज्जयिन्यां पुरि वर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥१॥ बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः !॥२॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ ३॥ तथापि शिक्षयामासु-स्तानाचायोः सुशिक्षया ॥ शुनो लालवत्ते तु, तत्यजुर्वक्रतां न हि !॥४॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मार
UTR-1