SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ।। १५६।। मेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः! ॥ २३॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः॥ श्रेष्ठी छित्त्वा च तत्पादं. खां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सव्रतिभिः पुरोधो-ऽवज्ञातवाचंयमवद्विषयः ॥ २५ ॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ १९ ॥ इहात्र पूर्वञ्च श्रावकस्य यत् परीपहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तञ्च-"तिण्हंपि णेगमणओ, IN परीसहो जाव उज्जुसुत्ताओत्ति” अत्र 'तिण्हंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं प्रर्वोक्ताशेषपरी| षहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्याता मिति प्रज्ञापरीषहमाह| मूलम्-से नूणं मए पूर्व, कम्मानाणफला कडा। जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४० ॥ ___ व्याख्या से शब्दो ऽथशब्दार्थ उपन्यासे, न्यूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरू* पाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं-" ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | X विघ्नेश्च, ज्ञानघ्नं कर्म बध्यते ॥ १॥" मयेत्यभिधानं च खयमकृतस्योपभोगासम्भवादुक्तं हि-"शुभाशुभानि कर्माणि, खयं कुर्वन्ति देहिनः ॥ खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतदित्याह-येन हेतुनाहं नाभि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy