________________
॥ १५४॥
काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतो| ऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत |
आह-रसेषु मधुरादिषु नाऽनुगृद्ध्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रबजितः ! किं मया स्तोकलोकप्रज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात् , 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि | तोपं,न्यकारकारिणि रोपञ्चाकुर्वताऽसौ परीपहोऽध्यासीतव्य इत्युक्तं भवतीति सत्रार्थः ॥३९॥ उदाहरणश्चात्र, तथाहि
बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी-त्स व्रजन्तमधो मुनिम् ॥१॥ साधोरस्य । शिरस्यझिं, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् , स खपादमलम्बयत् ॥ २॥ पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः ॥ मनसाऽपि मुनि वा-कुप्यच्छान्तरसोदधिः!॥३॥ तच प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वाऽसौ दुरात्मास्य-व्यधान्मूभि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेद- | | नीयोऽङ्गि-मयोपायेन केनचित् ॥ ५॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः,
खां प्रतिज्ञामभाषत ॥ ६ ॥ गुरुर्जगाद सत्कार-न्यक्कारौ हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ॥७॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ॥८॥
UTR-1