SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ।।१५३॥ तथा चके यथा जनः ॥ सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तृरिकामपि !॥ १७॥ अहो ! मुमुक्षुरप्येप, सुगन्धिद्रव्यभावितः ॥ सर्वदा तिष्ठतीत्युचै-रुड्डाहः पुनरप्यभूत् ॥ १८ ॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं खाभाविक तस्य, शरीरे विदधे सुरी ॥ १९ ॥ इति जलपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुआर-न विधेयं विधिवेदिभिस्तथा ॥ २०॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥१८॥ जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारी स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं॥जे ताइंपडिसेवंति, न तेसिं पीहए मुणी ॥३८॥| व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, स्वामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्गृहे भिक्षा गृहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीर्थिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सत्क्रियन्ते इति यतिनं चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किञ्चमूलम्-अणुक्कसाई अप्पिच्छे,अण्णाएसी अलोलुए। रसेसु नाणुगिझिजा,नाणुतप्पेज पण्णवं ॥३९॥ | व्याख्या-अणुकषायी अल्पकपायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मापकरणप्राप्तिमात्राभिलाषी, न स UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy