SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ।। १५२ ।। तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया!॥२॥ तस्य हट्टेऽन्यदा जग्मु-भीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥ ३ ॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥ ४॥ मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो तिनां शुभः ॥ ५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् !॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥७॥ ततच्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः ॥ प्रात्राजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥ ८॥ तस्याऽन्यदा | तन्निम्रन्थ-मलगर्दासमर्जितम् ॥ कर्मादियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥ ९॥ शटत्सादिकुणप-गन्धाद| प्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढुं कोऽप्यऽभूत्प्रभुः ॥ १० ॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्रसर्पता!॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ १२ ॥ तदीयदेहदोर्गन्ध्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३ ॥ मुने ! त्वदङ्गदोर्गन्ध्या-दुडाहो जायते भृशम् ! ॥ तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥१४॥ इत्युक्तो मुनिभिः सोऽथ, दोर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सग व्यधान्निशि ॥ १५॥ ततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ? ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ १६ ॥ ततः सुरी सुगन्धं तं, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy