________________
उत्तराध्ययन
।। १५१ ।।
व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी लानाकरणरूपमर्यादावर्ती, पङ्कन वा खेदामलरूपेण, रजसा या पांशुना, द्वितीयमध्य'प्रिंसुवत्ति' ग्रीष्मे, या शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि खेदः, खेदाचपङ्करजसी, ततश्च यनम् (२) क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्यति | शेषः, नो परिदेवयेत् , कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थः॥३६॥किं तर्हि कुर्यादित्याह| मूलम्-वेएज निजरापेही, आरिअं धम्ममणुत्तरं॥जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७॥ ___ व्याख्या-वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचार- IS रहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तम, प्रपन्न इति शेषः । अथ सामोक्तमप्यर्थ विशेषाद्वयक्तीकुर्वन्नाहजावेत्यादि-यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुनावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदाथ स्नानादि कुर्यात् , यतः-"न शक्यं निर्मलीक, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभि-नवभिर्मलमुद्रित् ॥१॥ इति सूत्रार्थः ॥ ३७॥ कथानकश्चात्र, तथाहि
अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः॥ स च श्राद्धः सर्वपण्यैर्व्यवहारं विनिर्ममे ॥१॥ यदौषधादिकं
UTR-1