SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ।। १५० ।। जैनं, धम श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाचाऽभूद्बहुश्रुतः ॥ २ ॥ प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा व्रती । विजहार धरापीठे ऽप्रतिबद्धः समीरवत् ॥ ३ ॥ अन्येद्युर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ ४ ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ॥ ५ ॥ व्रती तु प्रतिमास्थत्वा - न्न किमप्युत्तरं ददौ ॥ ततस्ते कुपिताः क्षार - दानेन तमतक्षयन् ॥ ६ ॥ निशातखङ्गवत्तीक्ष्ण-धारैर्दर्भैश्च तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च ते दुष्टाः स्वाश्रयं ययुः ॥ ७ ॥ यतेस्तस्याऽऽमिषं वाढं, समन्तादपि तैः कुशैः ॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ ८ ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं तृणस्पर्शपरीपहम् ॥ ९ ॥ लग्ना शूकशिखाऽप्यऽङ्गेऽङ्गनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमग्मैः कुशैरपि ! ॥ १० ॥ एवं तृणस्पर्शपरीषहं यथा - ऽधिसोढवान् भद्रमुनिर्महाशयः ॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै - स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ ११ ॥ इति तृणस्पर्शपरीपहे भद्रमहर्षि कथा ॥ १७ ॥ तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच परिखेदेन जलः सम्भवतीति तत्परीपहमाहमूलम् - किलिपणगाए मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥ १ पप्रच्छुरिति तं भूप - पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके || UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy