SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १४९ ।। रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह द्वितीयमध्य* मूलम्-अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होज्जा गाय विराहणा॥३४॥ यनम् (२) व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतम्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ ३४ ॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, अउला हवइ वेअणा॥एअंनच्चा न सेवंति, तंतुजं तणतजिआ ॥३५॥ व्याख्या-आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं | ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः-यद्यपि दर्भादितृण- | * विलिखितवपुप आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददा- * नैरार्तध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षश्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३६ ॥ उदाहरणश्चात्र, तथाहि श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥ १॥ मुनीनामन्तिके UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy