________________
उत्तराध्ययन
।। १४७॥
शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ ४ ॥ शब्दोऽसौ श्रूयते केषां १, फेरूणामिति तेऽवदन् ॥ कुमारो- | द्वितीयमभ्यऽथाऽब्रवीदेतान् , बवानयत काननात् ॥ ५॥ तेऽप्येकं जंबुकं बवा-ऽऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमा-|| यनम् (२) रोऽपि, वारं वारं जघान तम् ॥ ६॥ स 'खि' खीति ध्वनिं चके, हन्यमानो यथा यथा॥ तमाकर्ण्य कुमारोन्त-जेहर्पोचैस्तथा तथा ॥ ७॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-घन्तरत्वमवाप च ॥८॥ ___ इतश्च स मापसुतः, साधूनामन्तिकेऽन्यदा ॥ श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥ प्रतिपन्नोऽन्यदैकाकि-13 | विहारप्रतिमां च सः ॥ विहरन्मुद्गशैलाह्व-पुरेऽगाद्गुणसेवधिः ॥ १०॥ तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः ॥ सुदुःसहव्यथासिन्धु-प्रवर्तनघनाघनः ॥ ११॥ सोऽत्यर्थ व्याधिना तेन, पीड्यमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ १२ ॥ कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान्न सः ॥ किन्तु खकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ॥ १३॥ तत्र चाऽभूत्पुरे श्रीमान् , हतशत्रुमहीपतिः ॥ कालवैशिकसाधोश्च, खसा तस्य महिष्यऽभूत् ॥ १४ ॥ ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्या-ऽभिग्रह चाऽवबुध्य तम् ॥ १५ ॥ अर्शीघ्नमौषधं साध, भिक्षया नेहमोहिता ॥ भिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ॥ १६ ॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ॥ १७ ॥ अहो ! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ॥ १८ ॥ अभिग्र
UTR-1