________________
।। १४६ ॥
स्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः॥३२॥ ननु चिकित्सया किंन रोगाप
नोदः क्रियते ? इत्याह* मूलम् तेगिच्छं नाभिणंदिज्जा,संचिक्खत्त गवेसए॥ एअंखु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥ PI व्याख्या-चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । 'संचि
क्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् , न तु कूजितकर्करायितादि कुर्यात् ,
आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह–'एअंति' - एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् , उपलक्षणत्वा
नानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां K कारयन्त्यपि, यदुक्तं-"काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं,
सालंबसेवी समुवेइ मुक्खं ॥१॥” इति सूत्रार्थः ॥ ३३ ॥ दृष्टान्तश्चात्र, तथाहि___ अभूरिभूतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ॥१॥ कालाहां सोऽन्यदा वेश्यां, दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर-स्मरापस्मारविह्वलः ! ॥२॥ भुआनस्य तया भोगां-स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥३॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥
UTR-1