________________
॥१४४ ।।
अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥ १४ ॥ भिक्षां चालभमानः स, नोद्विवेज न वा जनम् ॥ निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ १५ ॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु खामिविनयेषु, को नु दुष्करकारकः ? ॥ १७॥ उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः !॥ सर्वषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ॥१८॥ हरिणा कथमित्युक्त, तस्य व्यतिकरं प्रभुः ॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ १९ ॥ ततो भक्तिभरोदश्च-द्रोमाञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, काऽधुना विद्यते ? विभो ! ॥ २०॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगयाँ प्रविशंस्तयां, पश्यसि त्वं मुकुन्द ! तम् ॥ २१ ॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुन्नहृत् ॥ २२ ॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति मन्तं धर्ममिवाऽच्युतः ॥ २३॥ ततोऽतिमुदितो विष्णु-भक्तिभावोलसन्मनाः ॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ २४ ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निरावाधविहार च, पप्रच्छ रचिताञ्जलिः॥ २५॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ॥ २७ ॥ ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा
UTR-1