________________
उत्तराध्ययन
द्वितीयमध्य यनम् (२)
।। १४३ ।।
सूत्रार्थविचिन्तनेन ॥ २२ ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनश्चात्र, तथाहि
मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-स्कृषिः पाराशराभिधः ॥ १॥ ग्रामीणैः सोऽन्यदा | लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्ट्या सीरशतानि षट् ॥ २॥ क्षुधितांस्तृषितान् श्रांतान् , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥३॥ किन्तु तैर्व्याकुलैगोभिः, कर्षकैश्च पृथक पृथक् ॥ एकैकवारं खक्षेत्रे-ऽवाहयत् हलषट्शतीम् ॥ ४॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपाय मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः॥ ५ ॥ द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽभवडण्ढणादेवीकुक्षिजो ढण्ढणाभिधः ॥ ६॥ [युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः ॥ पर्यणपीत्वसौन्दर्या-धरितामरसुन्दरीः ॥७॥ श्रीनेमिस्वामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्रावजत्कृष्ण-कृतदीक्षामहोत्सवः ॥ ८॥ अधीयानः श्रुतं साधे, स्वामिना विजहार सः॥ तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः ॥ द्वारकायां पुरि वर्ग-लक्ष्मीजित्वरसंपदि ॥१०॥ महेच्छानां महेभ्यानां,
सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥११॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, PI मुनिः किश्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री- नेमिं पप्रच्छ ढण्ढणः ॥१२॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्य
धात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ १३ ॥ लाभं मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् ॥
UTR-1