SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १३९ ।। गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८ ॥ पतता तरुणा तेन, सुध्यानास्ते हता- द्वितीयमध्यस्त्रयः॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ २३९ ॥ व्रतं वर्षशतं याव-प्रपाल्य त्रिदिवं मतः॥ रामोऽथा- यनम् (२) वधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥ २४० ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, * वपुरुत्तरवैक्रियम् ॥ २४१ ॥ मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्लेहलो रामः, परिरभ्यैवमत्रवीत् ॥ २४२ ॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाऽऽगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते ? ॥ २४३॥ कृष्णोऽप्युवाच खकृत-कर्मदोपोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकतु भवेत्प्रभुः ॥ २४४ ॥ ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः ॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ २४५ ॥ उत्पादितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६॥ मां मुञ्च मुञ्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ | त्वया धुत्पाद्यमानस्य, पीडा मे जायते भृशम् ॥ २४७ ॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं । त्यक्त्वा, मदभीष्टमदः कुरु ॥ २४८ ॥ शङ्खचक्रगदाखड्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं, कृत्वा मामअनधुतिम् ॥२४९॥ आत्मानं हलमसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् | ॥ २५० ॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो दूषिपुरे-वस्मन्नाशप्रमोदिषु ॥२५१॥ [ त्रिभिर्वि| शेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरौ ॥ २५२ ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy