SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्य यनम् (२) ।। १३७॥ रकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ २०९॥ अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च ॥ तत एव निवृत्त्याऽगा-तुङ्गिकादिशिरोवनम् ॥ २१ ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥ २११ ॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा! ॥ २१२ ॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वदं, लेभे तत्प्रार्थनादपि ॥ २१३॥ तितिक्षमाणो रामर्षि-रेवं यात्रापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ २१४ ॥ काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन् ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ॥ २१५ ॥ ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मत्रं वा, साधयत्ययमुत्तमम् ॥ २१६ ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ॥ २१७ ॥ ध्यात्वेति ते बलोपान्ते, ससैन्या | युगपद्ययुः ॥ बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीपणान् ॥ २१८ ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा राम ययुर्नृपाः ॥ नरसिंह इति ख्याति, लोके लेभे ततो बलः ॥२१९ ॥ स च राममुनिस्तत्र, बने तिष्ठन् कृपोदधिः ॥ |सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ २२० ॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ बभूवु| बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २२१ ॥ केचिचानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ त्यक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ॥ २२२ ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy