SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ।।१३६ ।। संयुतः ॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ १९६ ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारणश्रमणं प्रेषी-तत्पार्थे प्राब्रजबलः ॥ १९७ ॥ तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थ देवोऽपि, तद्रक्षायै तदन्तिके ॥ १९८ ॥ ENI इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ १९९ ॥ ततः शोकाम्भो धिमग्नाः, पाण्डया वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुर्हरेः ॥२०॥ ब्रतार्थिनोऽथ तान् ज्ञात्या, वृतं | पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः॥ २०१ ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः ॥ प्रव्रज्य पाण्डवाश्चा-घोरं साभिग्रहं तपः॥ २०२॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ २०३ ॥ ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥ २०४॥ ___ इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २०५॥ सोऽन्यदा प्रविशन् वापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ २०६॥ साऽभूदयग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कृपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानथैककारणम् ! ॥ २०८ ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy