________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। १३५ ।।
कीनोऽयं, नूनं सजो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्त-मारेभेऽश्मनि पद्मिनीम् ॥ १८२॥ तद्वीक्ष्योचे बलो रोह
सब्जिनी किं दृषद्यपि ॥ सोऽजल्पत्तेऽनुजो जीवे-द्यदा रोहेदियं तदा ॥ १८३॥ सुरो भूयः पुरो भूय, दग्धवृक्षं | सिषेच सः ॥ बलोऽब्रूताम्बुसे कैः किं, प्लुष्टद्रुः स्यात्सपलवः ? ॥ १८४ ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा॥ जीविष्यति तदा शाखी, भविताऽसौ सपलवः ॥ १८५ ॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः॥ देवो धेनुशवास्पेषु, बलात्क्षेप्तुं प्रचक्रमे ॥ १८६ ॥ वलस्ततो बभाणैव-मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ १८७ ॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ह्ययम् ॥ एता गावस्तृणैरेभिजीविष्यन्ति पुनस्तदा ॥ १८८ ॥ अथाऽध्यासीदिति वलः, किं ममार ममाऽनुजः ॥ एकयैव गिरा प्राहुः, सर्वेप्यते | जना यतः !॥ १८९ ॥ ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ १९ ॥ आपद्गतं बोधयेा-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं, त्वां वोधयितुमागमम् ॥ १९१॥ | विष्णोर्मृत्युर्जरापुत्रात् , प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाम्भः-कृते त्वयि गते सति ! ॥ १९२ ॥ हरिणा
प्रहितो दत्वा-ऽभिज्ञाने कौस्तुभं निजम् ॥ अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ॥ १९३ ॥ वलभद्रोऽथ सिद्धार्थ-मालिंग्यैवमभापत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु ? ॥ १९४ ॥ सिद्धार्थोऽथाऽवदद्भात-रिदानी ते विवेकिनः ॥ सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ॥ १९५ ॥ रामस्तत्प्रतिपद्याशु, नाकिना तेन
UTR-1