________________
।। १२८ ।।
कुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारकां बाप्पा-लताक्षाविति दध्यतुः ॥ ८४ ॥ [ युग्मम् ] पुरन्दरधनुष्कल्प - मनित्यत्वम हो ! श्रियाम् ॥ जलबुडुददेश्यं च जीवितव्यमहो ! विशाम् ॥ ८५ ॥ खम्प्रसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ ८६ ॥ यदुक्तं - " धारिज्जइ इंतो जल - निही वि कलोल भिन्नकुलसेलो || न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो ॥ ८७ ॥" अधोवाच हरिः सर्व- सम्पत्स्वजनवर्जितौ ॥ आवां भ्रातः ! क्व यास्यावो १, भीतौ यूथच्युतैणवत् ॥ ८८ ॥ बलोऽवादीत्पाण्डुपुत्राः सन्ति नः स्त्रिग्धबान्धवाः ॥ तत्पुरीं पाण्डुमथुरां यास्यावोऽवाच्यवार्द्धगाम् ॥ ८९ ॥ प्रोचे कृष्णो मया कृष्णां प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्द्धानरोपतः ॥ ९० ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः ॥ दुर्दशायां गमिष्यावः, तत्पार्श्वे साम्प्रतं कथम् ? ॥ ९१ ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापमवनैवो-पकारं विस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते । श्रुत्वेति सबलः पूर्वी, प्रत्यचालीन्नरायणः || ९३ ॥
इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः ॥ रामसूनुः खगेहाग्र - मारुह्योच्चैरदोऽवदत् ॥ ९४ ॥ अहं चरमदेहः श्री नेमिना कथितः पुरा ! ॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतत्रतः ॥ ९५ ॥ सा चेत्सत्या विभोर्वाणी,
१ यास्यावोsपाच्यवर्द्धिगाम् । इति 'ग' संज्ञकपुस्तके ||
UTR-1