________________
उत्तराध्ययन
॥ १२७॥
| पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरीं दह्यमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं राम- द्वितीयमध्यकृष्णौ त्वरितमीयतुः ॥ ७० ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्क- यनम् (२) टात् ॥ ७१ ॥ हया वृपाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रधमाकृषतां खयम् ॥ ७२॥ * स्थामाभिराम ! हाराम, ! हा महाराज ! केशव !॥ पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ॥७३॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि-भग्नाक्षमपि तौ रथम् ॥ ७४ ॥ [ युग्मम् ] ततस्तगोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तो चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ॥ ७५ ॥ तथापि न रथः पङ्क-मनवन्निरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ ७६ ॥ युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तक्किं विस्मृतं वां, ? यदद्यैवं विमुह्यथः ! ॥ ७७॥ तच्छत्वाऽतिव्याकुलौ तौ, पितरोऽप्येवमूचिर ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुनः!॥ ७८ ॥ युवयोर्जीवतो वी, पुनर्यदुकलोदयः ॥ वयं त्वथ प्रपन्नाःस्म, शरणं नेमितीर्थपम् ॥ ७९ ॥ प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान् , गणयन्तोऽवतस्थिरे ॥ ८० ॥ द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१ ॥ |
अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दह्य-मानां ददृशतुः पुरीम् ॥ ८२ ॥ ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ ८३ ॥ श्राद्धदेवश्रोत्रियस्य, वह्नि
UTR-1