________________
।। १२४ ।।
अत्युग्रञ्च तपस्तप्त्वा षड्तिर्मासैः सुरोऽभवत् ॥ २६ ॥ इतश्चानेकवृक्षौघ- पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड - स्थिता पक्करसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने ॥ तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मद्येन भृत्वा पार्श्वस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा तुष्टः शाबोऽपि तं जगी ॥ २९ ॥ प्राप्तं हृद्यमिदं मद्य मद्य कुत्र ? त्वया सखे ! | कादम्बरीकन्दराया - मवापमिति सोऽप्यवक् ॥ ३० ॥ कुमारैः सह दुर्दान्तै- स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरीं गत्वा, मुदितस्तां सुरां पपौ॥३१॥ बहोः कालादधिगतां यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् क्रीडन्तस्ते कुमारकाः ॥ ३२ ॥ तत्र द्वैपानं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु - द्योन्मादवशंवदाः ! ॥ ३३ ॥ अयं हि नेमिना प्रोक्तो - ऽस्मत्पुरीकुलनाशकः ! ॥ तद्धन्यतां हतो ह्येष कथं हन्ता पुरीकुले ! ॥ ३४ ॥ वदन्त इति ते सर्वे, चपेटायष्टिमुटिभिः ॥ निजघ्नुः पादातैश्च द्वैपायनमुनिं मुहुः ॥ ३५ ॥ इत्थं हत्वा मृतप्रायं विधाय धरणीतले । पातयित्वा च ते जग्मुः कुमारा द्वारकापुरीम् ॥ ३६ ॥ तद्विज्ञाय चरैर्विष्णु - विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ॥ ३७ ॥ अथैषां प्राणभूतानां किं करोमीति चिन्तयन् ? ॥ द्वैपायनमनुनेतुं तत्रागात्सबलो हरिः ! ॥ ३८ ॥ तञ्चापश्यत्परित्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ - मभ्यधादिति माधवः ॥ ३९ ॥ भो महातापस! क्रोधः, परत्राऽत्र च दुःखदः ॥ नैवातः क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ ४० ॥ मद्योन्मादा
UTR-1