________________
उत्तराध्ययन
॥ १२३ ॥
सकलां साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी-नन्दनान्निजसोदरात् ॥ भावी जराकुमाराच्च, तव || द्वितीयमध्यमृत्युर्जनार्दन!॥ १३॥ श्रुत्वेति यदवः सर्वे-ऽप्युल्मुकायितदृष्टयः॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् यनम् (२) ॥ १४ ॥ कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ! ॥ १५॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६॥ जिनवाचं जनश्रुत्या, | श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षा कर्तुमगाद्वनम् ॥ १७ ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थ मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारौघ-हताद्वैपायनाद्यतः॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ १९॥ तत्पार्श्वस्थाचलासन्न-कदम्बवनमध्यतः ॥ कादम्बरीदरीवर्ति-शिलाकु| ण्डेषु भूरिषु ॥ २०॥ सकलं प्राकृतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् | ॥ २१॥ (त्रिभिर्विशेषकम् ) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदरलम् | ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं खीयपुरीकुले ॥ तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ॥ २३ ॥ ततोऽत्र| वीद्वलोऽजस्र-स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु व्रतं पालयित्वा, त्वं | देवत्वमुपागतः ॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयेः ॥ २५॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥
१ कदम्बवनवर्तिषु । इति 'ग' संज्ञकपुस्तके ।
UTR-1