________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। १२१ ॥
॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्यं, खवृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥६॥ ततोऽरण्यमभूद्देश-भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एष सोढः ! ॥ सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ १३ ॥
परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निचं, अणगारस्स भिक्खुणो। सवं से जाइअंहोई, नस्थि किंपि अजाइ॥२८॥
व्याख्या-दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेषं द्योतयति, 'भो' इत्यामत्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति,
नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्च| मूलम्-गोअरग्गपविठ्ठस्स, पाणी नो सुप्पसारए। सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥२९॥
व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनेरिति गम्यं, पाणिहस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि
UTR-1