SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ।। ११७ ।। स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥२॥ तदा दण्डकि भूपोऽभू-त्कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी-दभव्यः पालकाभिधः ! ॥३॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा॥४॥ अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः ॥ ५॥ धन्यंमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ॥ ६॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥७॥ स च भूपसभामध्ये, कुर्वन्निग्रन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ॥८॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि ॥ अपकर्तुंम्पुनःकिश्चि-त्तस्य न प्राभवत्तदा ॥९॥ कृतप्रस्तुतकृत्योऽथ, पालकः खास्पदं ययौ ॥ जगाम न तु तचित्ता-त्कोपः स्कन्दकगोचरः ॥१०॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः ॥ प्रात्राजीत्स्कन्दकः साकं, मानां पञ्चभिः शतैः ॥ ११॥ क्रमाद्बहुश्रुते जाते, स्कन्दके मुव्रतप्रभुः ॥ तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ १२ ॥ अन्येयुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति ॥ ब्रजाम्यहं खसुर्देश-मादेशः स्याद्यदि प्रभोः ॥ १३ ॥ जगौ जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ १४ ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम् ॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥ १५॥ ततो १ मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy