________________
।। ११८ ।।
ब्रूहि प्रभो ! तस्मिनुपसर्ग उपस्थिते ॥ आराधका भविष्यामो वयं यद्वा विराधकाः १ ॥ १६ ॥ खामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशद्भृशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु- र्विहारे यत्र साधवः ॥ नूनं स शुभ एवेति विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमाद्गत्वा कुम्भकार - कृते स सपरिच्छदः ॥ उद्याने समवासार्थी - त्तम श्रौषीच पालकः ॥ १९ ॥ ततः प्राग्वैरशुद्धयर्थ - मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ २० ॥ इति दण्डकिराज्ञे चा-ऽषडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१ ॥ अयं स्वयं महावीर्य - श्वण्डदोर्दण्डविक्रमैः ॥ साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा राज्यमेतद्ब्रहीष्यति ! ॥ २३ ॥ [ युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-न्नस्मिन्मद्वचने भवेत् ॥ तदा तद्गोपितास्त्राणि गत्वोद्यानं विलोकय ! ॥ २४ ॥ एवं व्युद्वाहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरैक्षत ! ॥ २५ ॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् ॥ अकार्य विद्यते किञ्चिन्नाऽविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकस्यैव, तान्निबद्ध्यायन्नृपः ॥ यतुभ्यं रोचते तत्त्व - मेषां कुर्या इति ब्रुवन्! ॥ २७ ॥ मूषकानिव मार्जार - स्तान् प्राप्य मुदितोऽथ सः ॥ संयतान् संयतान्मर्त्य - पीडायन्त्रान्तिकेऽनयत् ॥ २८ ॥ इति प्रोचे च रे ! यूय - मिष्टं स्मरत दैवतम् ॥ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशा