________________
।। ११६॥
___ अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीपहमाह
मूलम्-हओ न संजले भिक्खु, मणंपि न पओसए। तितिक्खं परमं नच्चा,भिक्खुधम्मं विचिंतए॥२६॥ * व्याख्या-हतो यष्टयादिभिस्ताडितो न सज्वलेत् , कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादि
ना ज्वलंतमिवात्मानं नोपदर्शयेद्भिक्षुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षा क्षमा परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् , भावयेच
क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति KI सूत्रार्थः ॥ २६ ॥ अमुमेवार्थ प्रकारान्तरेणाह* मूलम्- समणं संजयं दंतं, हणेजा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ २७ ॥ | व्याख्या-श्रमणं तपखिनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थं वाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयत्कोऽपि तादृशो दुष्टः, कुत्रचिद्वामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यामन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, ‘एवं' वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ॥ २७ ॥ निदर्शनचात्र, तथाहि
अभून्नगर्या श्रावस्त्यां, जितशत्रुर्महीपतिः॥ सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ १॥ गौरीशयोः
UTR-1