SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ११५ ।। ॥ ४२ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ खामिन् ! कथं विशुद्धिर्मे, भवेद्बहुलपाप्मनः ॥ ४३ ॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ ४४ ॥ मलं खर्णगतं वह्नि-हँसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ॥ ४५ ॥ यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः ॥ तथा तीव्रतपोऽपास्ताः पाप्मानः प्रबला अपि ॥ ४६ ॥ तन्निशम्यार्जुनः स्वामि - समीपे त्रतमाददे ॥ निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥ ४७ ॥ निरन्तरं षष्ठतपः कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्ती धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्बहुलोकोक्तै- राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [ युग्मम् ] “मन्निंदया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ५१ ॥ " किञ्च "अक्कोसहणणमारण - धम्मभंसाण बालसुलहाणं ॥ लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ५२ ॥” इति ध्यायन् स षण्मासी, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, | केवलज्ञानमुज्ज्वलम् ॥ ५३ ॥ ततश्विरं स प्रतिबोध्य भव्यान् मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वाक्रोशपरीहोन्यै - रपि क्षमाढ्यैः श्रमणैर्विषः ॥ ५४ ॥ इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ १२ ॥ १ मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥ द्वितीयमध्ययनम् (२) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy