SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ।। ११४ ।। स्मादुपसर्गाच्चे- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ॥ २८ ॥ इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ॥ २९ ॥ सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य- द्बलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्रामं भ्राममविश्रामं, यक्षः श्रान्तोऽभवत्ततः ॥ न तु तं द्रष्टुमैशिष्ट, दुईट्यार्कमुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्तत्वाऽर्जुनं यक्षोऽगमत्ततः ॥ अपि देववलाद्धर्म- बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष ? क्व स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव निद्रावस्थानुभूतवत् ॥ ३५ ॥ सोऽथाप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदोऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम्! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽभ्यधाच्छ्रीमहावीरं वन्दनार्थं व्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - द्वन्दितुं परमेश्वरम् ॥ अहमप्यागमिष्यामि त्वया सह महामते ! ॥ ४० ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः खामिदर्शनोत्सुकदर्शनः ॥ ४१ ॥ श्रीवर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक् शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy