________________
उत्तराध्ययन
।। ११३ ।।
॥ १३ ॥ यदि चात्र भवेद्यक्ष - स्तदासी मां स्वसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाभवत् ॥ १४ ॥ ध्यायन्तमिति तं ज्ञात्वा यक्षस्तदनुकम्पया || प्रविवेशाशु तस्याने ऽछिदत्तद्वंधनानि च ॥ १५ ॥ सहस्रपलनिष्पन्नं गृहीत्वा लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी - गुरुपान् पद् जघान च ॥ १६ ॥ इत्थं प्रतिदिनं नारी - सप्तमान् मानवान् स पट् ॥ जधान सतताभ्यासाद्रामं भ्रामं पुराद्वहिः ॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स्वायन निरगाद्बहिः ॥ यावत्तेन हता न स्युः, पट् नारीससमा नराः ॥ १८ ॥
अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पु वास्तव्यः, श्रुत्वा श्रीमजिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोन्सत्तनुः ॥ २० ॥ अहो ! जगज्जनाम्भोजप्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाज्जनः ॥ २१ ॥ जिनस्य विश्वत्रितय- त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि तज्जनोऽयं विभेति किम् ? ॥ २२ ॥ यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगान्नगराद्वहिः ॥ २३ ॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयनू मुद्गरं तं पुष्पकन्दुकलीलया ॥ २४ ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषतवत् ॥ वीक्ष्येति व्यमृशद्वर्य - स्थैर्यधैर्यः सुदर्शनः ॥ २५ ॥ अयं मुद्रपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकृत्यं कुर्वेह - मेवं ध्यात्वेति सोऽब्रवीत् ॥ २६ ॥ अर्हत्सिद्धमुनीन् जैनं, धर्मे च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किञ्चा
द्वितीयमव्य मनम् (२)
UTR-1