SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ।। ११२ ।। पभाषी । उपेक्षेतावधीरयेत् , प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ दृष्टान्तश्चात्र, तथाहि अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् ॥ मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ १ ॥ यक्षो मुद्गरपाR ण्याह्नः पुराद्राजगृहाबहिः ॥ अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ॥२॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः ॥ तं * यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥ ४ ॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः षद् कामिनो नराः॥५॥ असौ सौन्दर्यवसति-वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥६॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ ७॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि ॥ तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ॥ ८॥ आगच्छत्यर्जुनोऽसौ त-किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा-नास्माकं भीरु ! | भीरिति ॥ त्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥ १० ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते - तत्कान्ता-महम्पूर्विकया मुहुः ॥११॥ खभायाँ भुज्यमानां तै- वीक्ष्याऽचिन्तयदर्जुनः॥ एनं यक्षं पुष्पपुजः, पूजयाम्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् ॥ तनिश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते ! UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy