________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। १११ ॥
| द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥ ९॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् ॥ तच्छ्रुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥ १०॥ [ युग्मम् ] युवयोरभवयुद्धं, यदान्योन्यविलग्नयोः॥ तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ॥ १३ ॥ सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ॥ १४ ॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इतिक्षपककथा ॥ | उक्तमेवार्थ निगमयितुमाह-'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गामकंटया।तुसिणीओ उवेहेजा, न ताओ मणसी करे ॥२५॥
व्याख्या-श्रुत्वा ‘णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति तूष्णींशीलोन कोपात्परु
UTR-1