________________
।। ११० ।।
शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - मूलम् - अक्कोसिज परो भिक्खु, न तेसिं पडिसंजले । सरिसो होई बालाणं, तह्मा भिक्खू न संजले ॥ २४ ॥
व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवद्दीप्येत । चिन्तयेच्चैवं - " आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोषः ?, स्यादनृतं किं नु कोपेन ? ॥ १ ॥” किमेवमुपदिश्यत इत्याह- प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥
तथा हि काप्यभूत्कश्चि- दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास - क्षपणादिकमाचरन् ॥ १ ॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥ २ ॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः ॥ जातकोषः समं तेन, योद्धुं प्रववृतेतराम् ॥ ३ ॥ क्षुत्क्षामदेहः क्षपक- स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या - मपात्यत तरखिना ॥ ४ ॥ मुहुर्मुहुस्ताडयित्वा द्विजेन मुमुचेऽथ सः ॥ ततः स्वस्थानमगमत्क्षपकोऽपि कथञ्चन ॥ ५ ॥ तत्पार्थेऽथ विभावर्या, विभाभिर्भासुरा सुरी | समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६ ॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः ॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥ ७ ॥ त्वं न जल्पयसि खामिन्नपराधात्कुतोऽद्य मां ? ॥ ततो वाचंयमोप्युच्चैः प्रत्युवाचेति निर्जरम् ॥८॥
SUTR-1