SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १०९ ।। पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः || ५ || अन्ये त्वाहुर्ददे ताभिर्मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच्च तावपि ॥ ६ ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ ७ ॥ | अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् ॥ सुरामप्यऽपिवावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८ ॥ सेवेताकल्प्यमप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ ९ ॥ इत्यालोच्यापगातीर - गतकाष्ठोपरि स्थितौ ॥ तावका पादपोप - गमनं मुनिसत्तमौ ॥ १० ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावित सैकतैः ॥ ११॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव तदापि प्रतिनी तु तौ ॥ १२ ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य - स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा-भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां ग्रास- विवाधाञ्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ १५ ॥ [ युग्मम् ] यावज्जीवं विष|ति, तीव्रं शय्यापरीषम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या - परीपहं यद्वदहार्यधैर्यौ ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृत क्षीरपयोधिकल्पैः ॥ १७ ॥ इति शय्यापरीषदे सोमदत्तसोमदेवर्षिकथा ॥ ११ ॥ द्वितीयमध्ययनम् (२) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy