________________
।। १०८ ।।
कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहरणइ' इति - प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याह
मूलम् --पइरिक्कं उवस्सयं लहुं, कल्लाणं अदुव पावगं । किमेगराई करिस्सइ, एवंतस्थ हिआसए ॥ २३ ॥
व्याख्या - प्रतिरिक्तं रुयादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं ' अदुवत्ति' अथवा पापकमशोभनं किं न किञ्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः - केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा ? । मया हि समभावार्थमेव व्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणञ्चात्र तथाहि
बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त - सोमदेवाभिधौ सुतौ ॥ १ ॥ सोमभूतिमुनेः पार्श्व, तौ द्वावपि महाशय ॥ प्रात्राजिष्टां भवोद्विग्ना - वभूतां च बहुश्रुतौ ॥ २ ॥ अन्यदा खजनान् द्रष्टुं तौ कौशाम्बीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां गत्वाऽभूवन् स्थितास्तयोः ॥ ३ ॥ ततस्तावप्य चलता - मभिमालवकं मुनी ॥
UTR-1