________________
उत्तराध्ययन
द्वितीयमध्य यनम् (२)
।। १०७॥
ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् ॥ मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ॥ ७ ॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः ॥ मुनिस्तु तैज्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ ८॥ “सह कलेवर ! खेदमचिन्तयन् , खवशता हि पुनस्तव दुर्लभा ! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥९॥" ध्यायन्निति यतिौलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ १०॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ॥ ११॥ इति नैषेधिकीपरीषहे कुरुदत्तसुतर्षिकथा ॥१०॥
नैषेधिकीतश्च खाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाहमूलम् – उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं। नाइवेलं णिहणणेजा,पावदिट्ठी विहण्णइ ॥२२॥ ___ व्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः शय्याभिर्वसतिभिस्तपस्वी तपःकर्ता, भिक्षुर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान् , न नैव अतिवेलं खाध्यायादि वेलातिक्रमण विहन्यात् , हंतर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वतुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न लड़येत्।
UTR-1