SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥१०६ ॥ व्याख्या-श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयत्, परमन्यं मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न खयं बिभीयात् , न च विकृतवरशरीरविकारादिभिरन्येषां भयमुत्पादयदिति सूत्रार्थः ॥२०॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्ती किं कृत्यमित्याहमूलम्-तत्थ सेचिट्ठमाणस्स, उवसग्गाभिधारए।संकाभिओन गच्छिज्जा, उद्वित्ता अण्णमासणं ॥२१॥ व्याख्या-तत्र श्मशानादौ से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयरिति शेषः । तानपसर्गानभिधारयेत. I किं नामैते रढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशकातरस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ २१॥ दृष्टान्तश्चात्र, तथाहि__ अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥ १॥ स संविग्नो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥२॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः ॥३॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यर्षेः, पार्थस्थेनाध्वना ययुः॥४॥ साधुपार्थमथाभ्येयु- गोधनान्वेषका अपि ॥ द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ॥५॥ हि साधो ! पथा केन, जग्मुश्चौराः सगोधनाः!॥ तच्छृत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ॥६॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy