________________
उत्तराध्ययन
।। १०५ ।।
पश्यामि तामसैः ॥ ४० ॥ ततस्तस्याङ्गुलीमेका - मामृश्यादीदृशद्गुरुः ॥ सा च दीपशिखेवोच्चै - दिदीपे तत्प्रभावतः ॥ ४१ ॥ तद्दृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म - गुरवो रक्षयन्त्यमी ॥ ४२ ॥ तच तं चिन्तितं ज्ञात्वा - ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट रुष्टा निष्ठुरया गिरा ॥ ४३ ॥ चंद्रोज्ज्वलचरित्रेषु यद्गुरुष्वीशेष्वपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः ! ॥ ४४ ॥ त्वमेवं सद्गुरून्निन्द - न्निदानीं लप्स्यसे क्षयम् ! || ज्वालाजिह्वं ज्वलद्रूप - माक्रामन् शलभो यथा ॥ ४५ ॥ समतारसपीयूष - कुण्डं यद्यपि सूरयः ॥ शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥ ४६ ॥ तथापि गुरुपादाब्ज - भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ ४७ ॥ तच्छ्रुत्वा जातभीर्दत्तो, निपत्य गुरुपादयोः ॥ स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥४८॥ गुरवोऽपि जगुर्वत्स !, माभैषीर्नास्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगान्निजास्पदम् ॥ ४९ ॥ नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निःशङ्को, गुरुभक्तोऽभवद्भृशम् ॥ ५० ॥ यथा जरित्वेऽप्यसहिष्ट चर्या - परीषहं सङ्गमसूरिरेवम् ॥ तथा मुनीन्द्रैः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ ५१ ॥ इति चर्या - परीष सङ्गमाचार्यकथा ॥ ९ ॥
यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रति बद्धेन सह्य इति तमाहमूलम् — सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अक्कुक्कुओ निसीएज्जा, न य वित्तासए परं ॥२०॥
द्वितीयमध्ययनम् (२)
UTR-1