________________
॥१०४ ।।
यंश्चिरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् खयम् ॥ २६ ॥ चिन्तयन्निति दत्तर्षि-जंगामोपाश्रयं निजम् ॥ खयं शठो हि सरल-मप्यन्यं मन्यते शठम् ॥ २७ ॥ आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् ।। आययुः खाश्रयं द्वाव-प्याहारं च वितेनतुः ॥२८॥ अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः॥ आलोचयतु भिक्षाया, दोपानद्यतनान् भवान् !॥ २९ ॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यहम् ॥ तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ॥ ३० ॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः ॥ तमालोचय तच्छ्रुत्वा, सकोप इति सोऽब्रवीत् ॥ ३१ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि !॥ आत्मनो विल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ ३२॥ द्रष्टुं खदोषान् लोकानां, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥३३॥ विब्रुवनिति दत्तोऽगा-त्ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥३४॥ तस्मै निन्दाका| रिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ ३५ ॥ ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ॥ ३६ ॥ सकर्करोत्करं रेणु-निकरं खरवायुना ॥ उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ ३७॥ दत्तस्ततो भयभ्रान्त-खान्तो ध्वान्तावृतेक्षणः ॥ अन्धान्धुक्षिप्तवत्पश्य-नपि नैक्षिष्ट किञ्चन ॥ ३८ ॥ वेपमानवपुः सोऽथ, भयव्याकुलया गिरा ॥क सन्ति पूज्या इत्युच्चैः, सूरिसिंहानशब्दयत् ॥ ३९ ॥ शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुर्जगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-न वः
UTR-1