________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥१०१॥
इव चक्राङ्गवत्तरन् !॥ २०१॥ काऽहं ? सत्वोज्झितः ! क्व ? श्री- स्थूलभद्रश्च धीरधीः ! ॥ व सर्षपः ? व हेमाद्रिः ?, | क खद्योतः क चांशुमान् ? ॥२०२॥ इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ॥ २०३ ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥२०४॥ स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्नः त्वात्मनः शशिमुखीषु निधेयम् ॥ २०५॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥८॥ ___ स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामवि
हाररूपा चर्या कार्येति तत्परीषहमाह| मूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥ __ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैषणीयाहारेण याप
यति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , कचरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' dl पूरणे, निगमे वा वणिग्निवास, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणश्चैतदिति सूत्रार्थः ॥ १८॥
पुनः प्रस्तुतमेवाह* मूलम्-असमाणो चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥१९॥
UTR-1