________________
।। १०० ।।
चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ १८७ ॥ अथ तत्रागतं साधुं धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतच किमपि द्रव्यं ते मुमुचुर्मुनिम् ॥ १८८ ॥ शकुनः पुनरित्याख्य-द्याति लक्षमिदं पुरः ॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ १८९ ॥ वयं तवाभयं दद्मः, तथ्यं वद किमस्ति ? ते ॥ ततो यतिर्जगौ यूयं, सत्यं शृणुत दस्यवः ! ॥ १९० ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रत्नकम्बलः ॥ मत्पार्श्व इति तेनोक्ते ऽमुचत्तं चौरराट् मुनिम् ॥ १९१ ॥ अथागत्य स कोशायै, रत्नकम्बलमार्पयत् ॥ गृहनिर्धमने साऽपि तं निचिक्षेप पङ्किले ॥ १९२ ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रलकम्बलः १ ॥१९३॥ कोशा शशंस यद्येत - ज्जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढ्यं, क्षिपसि ? वकर्दमे ॥ १९४ ॥ किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदङ्गे खालजम्बाल - कल्पे क्षिपसि किं मुधा ? ॥ १९५ ॥ तच्छ्रुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः ॥ संसाराच्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनघे ! ॥ १९६ ॥ अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण श्रयिष्येऽहं गुरुहृदम् ॥ १९७ ॥ कोशाऽब्रवीद्ब्रह्मचर्य - स्थितयाऽपि मया मुने ! ॥ यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम ! ॥ १९८ ॥ आशातना मया युष्म - त्प्रतिबोधाय या कृता ॥ सा सोढव्या गुरोराज्ञा, वोढव्या च स्वमौलिना ! ॥ ९९ ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः खनिन्दामिति चात्रवीत् ॥ २०० ॥ अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् ॥ प्रापं विडम्बनां काक,
UTR-1