________________
उत्तराध्ययन |
।। ९९॥
प्यस्ति नायं मे, क्व नु दुष्करदुष्करः ? ॥ करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ॥ १७३ ॥ अथोचे सरिरेतस्मा- 2 द्वितीयमध्यदभिग्रहकदाग्रहात् ॥ वत्स! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः !॥ १७४ ॥ एनामपि गुरोर्वाचं, मुमुक्षुरव- यनम् (२) मत्य सः ॥ वीरंमन्यो ययौ कोशा-सदनं मदनाश्रयम् ! ॥ १७५ ॥ स्पर्धया स्थूलभद्रस्य, नूनमागादयं मुनिः । कोशाऽपि तं विलोक्येति, दध्यौ दक्षा नमच्च तम् ॥ १७६ ॥ स्थित्यर्थ प्रार्थयामास, स साधुश्चित्रशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ॥ १७७ ॥ बुभुजे च तया दत्त-माहारं षड्रसाञ्चितम् ॥ अथ कोशाऽपि तत्रागा-मध्याह्ने तं परीक्षितुम् ॥ १७८ ॥ मृगाक्षी तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः ॥ मदनावेशविवशः, संवेशनमयाचत ॥ १७९ ॥ ततः कोशा तमित्यूचे, खामिन् ! पण्याङ्गना वयम् ! ॥ खीकुर्मः शक्रमपि नो, धनदानं | विना कृतम् ! ॥ १८ ॥ मुनिः स्माह प्रसद्य त्वं, मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् ! ॥ १८१ ॥ त्वदाज्ञाविवशश्चाहं, धनमप्यानये द्रुतम् ॥ निवेदयसि चेन्मा, तत्प्राप्तिस्थानमुत्तमम् ॥ १८२ ॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ॥ नव्यसाधोलक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ॥ १८३ ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ॥ १८४ ॥ तत्र गत्वा धराधीशा-द्रत्नकम्बलमाप्य च ॥ ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ॥ १८५ ॥ तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा ॥ आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ॥ १८६ ॥ किमायातीत्यपृच्छच, वृक्षारूढं
UTR-1