________________
।।९८॥
यान् , तदागस्त्वं सहख मे ॥ १५८ ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत ॥ प्रबुद्धा साऽपि तं धर्म, खीकृत्या
भ्यग्रहीदिति ॥ १५९ ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः ॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्ध* वाः ॥ १६० ॥ अथ प्रान्ते चतुर्मास्या-स्तीर्णखखप्रतिश्रवाः ॥ ते त्रयो मुनयो जग्मुः, क्रमात्स्वगुरुसन्निधौ ॥ १६१ ॥
तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः ॥ गुरुर्जगौ खागतं ते, वत्स ! दुष्करकारक ! ॥ १६२ ॥ अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ ॥ स्थूलभद्रोऽप्यऽथाऽऽयासी-संतीर्णाभिग्रहार्णवः ॥ १६३ ॥ तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, खागतं ते तपोनिधे !॥ १६४ ॥ सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः ॥ गुरवो मत्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ॥ १६५ ॥ नित्यं षडूरसमाहारं, भुक्त्वा तत्र स्थितोऽ
प्यऽसौ ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ॥ १६६ ॥ वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्याRK यन्त इति ते मासान् , कष्टादष्टाऽत्यवाहयन् ! ॥१६७॥ वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः ॥ सम्भूतविज* याचार्यान् , प्रणम्येति व्यजिज्ञपत् ॥ १६८ ॥ सर्वदा षड्रसाहार-भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासीं, K स्थूलभद्र इव प्रभो ! ॥१६९॥ अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्यत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत्
॥ १७ ॥ वत्साभिग्रहमेनं मा-कार्षीर्दुष्करदुष्करम् ॥ क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ॥ १७१ ॥ अपि स्वयम्भूरमण-तरीतुं शक्यते सुखम् ॥ अयं त्वभिग्रहो धर्तु, दुष्करेभ्योऽपि दुष्करः! ॥ १७२ ॥ दुष्करोऽ
UTR-1