________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। ९३ ।।
विचारय महाशय ! ॥ ८५ ॥ अशोकवनिकां गत्वा, सोऽप्येवं व्यमशत्ततः ॥ नियोगिनां राजकार्य-व्यग्राणां व सुखं भवेत् ? ॥ ८६ ॥ नियोगी दुःस्थवत्काले-ऽप्यनुते नहि भोजनम् ॥ अधमर्ण इव कापि, नेष्टे निद्रातुमप्यसौ !॥८॥ राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुनः ? ॥ ८८ ॥ सत्यप्येवं खामिभक्तः, खामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-श्चेन्निष्कारणवैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ ९० ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥
राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ ९१ ॥ तदेवमैहिकं सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविणर क्रीता, ढौकते नरकव्यथा ॥९२ ॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्यते खहिते
व्रते ? ॥ ९३ ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनौल-कस्तूरीपङ्कपङ्किलाम् ॥९४ ॥ कृत्वा धर्मध्वजं रत्न-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाद्भप-मालोचितमिदं मया ॥९५ ॥ इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः ॥ निर्मोहो निरगाद्राज-गेहाद इवाम्बुदात् ॥९६॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः १॥ इति ध्यायन् गवाक्षेण, मापस्तं यान्तमैक्षत ॥ ९७॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु॥गच्छन्नाच्छादयद् घ्राणं, नाऽपि वक्रममोटयत् ॥९८॥ तथा वजन्तं तं दृष्ट्वा, दध्यावे स भूधवः ॥वीत मोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥९९।। स्थूलभद्रोऽपि सम्भूत-विजयस्वामिसन्निधौ ॥ गत्वा नत्वा च तान् |
UTR-1