________________
।। ९२ ।।
श्रीयको दध्यौ, किं करोमि ? व याम्यहम् ? ॥ वच्मि? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ ७१ ॥ इतस्तात
वपुर्णतः, इतश्चाज्ञाव्यतिक्रमः ॥ आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तटी ॥ ७२ ॥ ध्यायन्नेवं कथमपि, पितृ७ वाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ ७३ ॥ पृष्ठतः शकटालोऽगा-नपश्चाभूत्पराङ्मुखः॥
उपविश्य ततो मत्री, किञ्चिदूचे यथोचितम् ॥७४॥ तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम | तन्मौलि, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥ ७५ ॥ ततो हाहारवो लोकै-श्चके भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स!, दुष्करं किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ ७७ ॥ खामिद्रोही च निग्राह्य, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ॥७८ ॥ तच्छ्रुत्वा व्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः ! ॥ ७९ ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ॥ ८॥ध्यात्वेत्याश्वासयद्भपः, श्रीयकं प्रियभाषितैः ॥ प्रेम्णा खयं वितेने च, शकटालोर्द्धदेहिकम् ॥ ८१॥ ऊचे च श्रीयकं मत्रि-मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयन्नृपम् ॥ ८२॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ॥८३ ॥ तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृपः।। जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नृपोऽवदत् ॥ यद्विचार्य तदद्येव,
UTR-1