________________
।। ९४ ।।
दीक्षा-माददे विधिपूर्वकम् ॥१०॥श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी॥१०१॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशाखसारं भेजे चो-पकोशां तद्वशंवदः ॥१०२॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ॥१३॥ | भ्रातुः प्रियेति तद्गहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ॥ १०४ ॥ श्रीयकस्तां तदेत्या- 12
ख्य-द्रहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि-मम तातमघातयत् ॥ १०५॥ श्रीस्थूलभद्रविरह, चायमवातनोत्तव ॥ अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ॥ १०६ ॥ तव खसारं तद्याव-दुपकोशां भजत्ययम् ॥ वैरनियातनोपायं, तावत्किञ्चिद्विचारय ॥१०७॥ यदि चायं पिबेन्मद्यं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ॥१०८ ॥ एवं देवरवाक्यं सा, खीचकार पणाङ्गना ॥ ऊचे च भगिनी मद्य-रुचिं वररुचिं कुरु | ॥१०९॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥११० ॥ खरं | वररुचिर्भट्टो, मद्यमद्यास्ति पायितः॥ उपकोशेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ १११॥ कोशाऽपि तं तदृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छुत्वा श्रीयकोप्युच्चै-स्तुष्टोऽगात् भूपपर्षदि॥११२॥शकटालगुणान् स्मारं, स्मारं नन्दनृपोऽन्यदा ॥ इत्यूचे श्रीयकामात्य-मास्थानस्थः सगद्गदम् ॥१०३॥ शकटालो महामन्त्री, ममाऽभूद्भरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे !॥ ११४ ॥ उवाच श्रीयकः स्वामि-निह किं कुर्महे ? वयम् ॥ सुरापायी वर
UTR-1