________________
उत्तराध्ययन
।। ८९ ।।
धीसखः ॥ स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ २६ ॥राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य द्वितीयमध्य| यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? ॥ २७ ॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ KI यनम् (२) तानि प्राशंसिपमहं, ततो भूपतिरित्यवक् ॥ २८॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ? ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम् ॥२९॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः ॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः॥ ३०॥ तन्निशम्याऽथ साश्चर्णे, नृपो जवनिकान्तरे ॥ सप्ताऽपि मत्रिपुत्रीस्ताः, समाहूय न्यवीविशत् ॥ ३१॥ अथाऽऽगतो वररुचिः, काव्यस्तावद्भिरुत्तमैः॥ तुष्टाव क्ष्मापति क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥३२॥राजादेशात्सभामेत्य, तथैव कथयच सा॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ॥३३॥ सर्वा अप्येवमूचुस्ता-स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥३४॥ गङ्गास्रोतोजले यत्रं, चके वररुचिस्ततः॥ अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ॥३५॥ प्रातश्च जाह्नवीं स्तुत्वा-ऽङ्गिणा यत्रमचीचलत् ॥ दीनारग्रन्धिरुप्लुत्य, न्यपतत्तत्करे तदा ॥ ३६ ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥३७॥ जनोक्त्या तन्निशम्याऽथ, मत्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रात
क्ष्यामोऽदः स्वयं वयम् ॥ ३८॥ इत्युक्त्वा खगृहं गत्वा, मन्त्री प्रैषीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥३९॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिकां स्वयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं वररुचिय॑धात् ॥४०॥ वलि
UTR-1