________________
।।८८॥
विलासर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ॥११॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः ॥ अपि वाचस्पते
चां, तद्भवेन्नैव गोचरः ॥ १२ ॥ दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ॥ १३॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम् ॥ श्रीयकस्तु बभूवाङ्ग-रक्षको नन्दभूभुजः ॥१४॥ इतश्च नन्दनृपति, नाम्ना वररुचिः कविः ॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥ १५॥ तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवत्रं व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ॥ १६॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि धीसखाधीनं, विवेद नृपति तदा ॥ १७ ॥ लोकोक्त्या सचित्रं तं च, विज्ञाय गृहिणीवशम् ॥ भेजे लक्ष्मीवती स्वार्थ-सिद्धयै वररुचिर्द्विजः ॥ १८ ॥ तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः ॥ मत्काव्यं त्वगिरा राज्ञः, पुरो मत्री प्रशंसतु ॥ १९ ॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मत्रिणे सोऽपि, | तदाकाऽब्रवीदिति ॥ २० ॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः, करिष्ये || | तदपि प्रिये ! ॥ २१ ॥ प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥२२॥ स्तुतिप्रान्ते च भूपेना-ऽमात्यवक्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥ २३ ॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ २४ ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥ २५ ॥ ध्यात्वेति नन्दभूपाल-मवादीदिति
UTR-1